|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.190. अध्यायः 190
Mahabharata - Udyoga Parva - Chapter Topics
दाशार्णकेन पुनर्दूतप्रेषणे द्रुपदेन पत्न्यासह कर्तव्यालोचनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
भीष्म उवाच। 5-190-0x(3929)(38395)
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप।
चोरस्येव गृहीतस्य न प्रावर्तत भारती ॥ 5-190-1(38396)
स यत्नमकरोत्तीव्रं संबन्धिन्युनुमानने ।
दूतैर्मधुरसंभाषैर्न तदस्तीति संदिशन् ॥ 5-190-2(38397)
स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत् ।
कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ ॥ 5-190-3(38398)
ततः संप्रेषकयामास मित्रांणाममितौजसाम् ।
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ॥ 5-190-4(38399)
ततः समुदयं कृत्वा बलानां राजसत्तमः ।
अभियाने मतिं चक्रे द्रुपदं प्रति भारत ॥ 5-190-5(38400)
ततः संमन्त्रयामास मन्त्रिभिः स महीपतिः ।
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ॥ 5-190-6(38401)
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् ।
तथ्यं भवति चेदेतत्कन्या राजञ्शिखण्डिनी ॥ 5-190-7(38402)
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहम् ।
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् ॥ 5-190-8(38403)
घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम् ॥ 5-190-9(38404)
स तदा द्रुतमाज्ञाय पुनर्दूतान्नराधिपः।
प्रास्थापयत्पार्षतया निहन्मीति स्थिरो भव ॥ 5-190-10(38405)
भीष्म उवाच। 5-190-11x(3930)
स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः ।
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ॥ 5-190-11(38406)
विसृज्य दूतान्दाशार्णे द्रुपदः शोकमूर्च्छितः ।
समेत्य भार्यां रहिते वाक्यमाह नराधिपः ॥ 5-190-12(38407)
भयेन महताऽऽविष्टो हृदि शोकेन चाहतः ।
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ॥ 5-190-13(38408)
अभियास्यति मां कोपात्संबन्धी सुमहाबलः ।
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ॥ 5-190-14(38409)
किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति।
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ॥ 5-190-15(38410)
इति संचिन्त्य यत्नेन समित्रः सबलानुगः ।
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति॥ 5-190-16(38411)
किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने ।
श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा ॥ 5-190-17(38412)
अहं हि संशयप्राप्तो बाला चेयं शिखण्डिनी ।
त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि ॥ 5-190-18(38413)
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः।
तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते ॥ 5-190-19(38414)
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः ।
कृपयाहं वरारोहे वञ्चितः पुत्रधर्मतः ॥ 5-190-20(38415)
मया दाशार्णको राजा वञ्चितः स महीपतिः ।
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ॥ 5-190-21(38416)
जनाता ह नरेन्द्रेण ख्यापनार्थं परस्य वै ।
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ॥ ॥ 5-190-22(38417)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि नवत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-190-3 अगमत् ज्ञातवान् ॥ 5-190-5 समुदयं समुदायम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|